(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.191. अध्यायः 191
Mahabharata - Udyoga Parva - Chapter Topics
शिखण्डिन्या पित्रोः शोकस्य स्वमूलकत्वचिन्तनेन दुर्गमारण्यमेत्य स्थूणनाम्नः कुबेरानुचरस्य गृहसमीपे प्रायोपवेशः ॥ 1 ॥
स्थूणचोदितया शिखण्डिन्या तंप्रति पुंस्त्ववरणम् ॥ 2 ॥


Mahabharata - Udyoga Parva - Chapter Text

भीष्म उवाच। 5-191-0x(3931)(38418)
ततः शिखण्डिनो माता यथातत्त्वं नराधिप।
आचचक्षे महाबाहो भर्त्र कन्यां शिखण्डिनीम् ॥ 5-191-1(38419)
अपुत्रया मया राजन्सपत्नीनां भयादिदम् ।
कन्या शिखण्डिनी जाता पुरुषो वै निवेदिता ॥ 5-191-2(38420)
त्वया चैव नरश्रेष्ठ तन्मे प्रीत्याऽनुमोदितम् ।
पुत्रकर्म कृतं चैव कन्यायाः पार्थिवर्षभ ॥ 5-191-3(38421)
भार्या चोढा त्वया राजन्दशार्णाधिपतेः सुता।
मया च प्रत्यभिहितं देववाक्यार्थदर्शनात्।
कन्या भूत्वा पुमान्भावीत्येवं चैतदुपेक्षितम् ॥ 5-191-4(38422)
एतच्छ्रुत्वा द्रुपदो यज्ञसेनः
सर्वं तत्त्वं मन्त्रविद्भ्यो निवेद्य।
मन्त्रं राजा मन्त्रयामास राजन्
यथायुक्तं रक्षणे वै प्रजानाम् ॥ 5-191-5(38423)
संबन्धकं चैव समर्थ्य तस्मिन्
दाशार्णके वै नृपतौ नरेन्द्र।
स्वयं कृत्वा विप्रलम्भं यथाव-
न्मन्त्र्यैकाग्रो निश्चयं वै जगाम ॥ 5-191-6(38424)
स्वभावगुप्तं नगरमापत्काले तु भारत।
गोपयामास राजेन्द्र सर्वतः समलङ्कृतम् ॥ 5-191-7(38425)
आर्तिं च परमां राजा जगाम सह भार्यया।
दशार्णपतिना सार्धं विरोधे भरतर्षभ ॥ 5-191-8(38426)
कथं संबन्धिना सार्धं न मे स्याद्विग्रहो महान्।
इति संचिन्त्य मनसा देवतामर्चयत्तदा ॥ 5-191-9(38427)
तं तु दृष्ट्वा तदा राजन्देवी देवपरं तदा।
अर्चां प्रयुञ्जानमथो भार्या वचनमब्रवीत् ॥ 5-191-10(38428)
देवानां प्रतिपत्तिश्च सत्यं साधुमता सताम् ।
किमु दुःस्वार्णवं प्राप्य तस्मादर्चयतां गुरून् ॥ 5-191-11(38429)
दैवतानि च सर्वाणि पूज्यनां भूरिदक्षिणम् ।
अग्नयश्चापि हृयन्तां दाशार्णप्रतिषेधने ॥ 5-191-12(38430)
अयुद्धेन निवृत्तिं च मनसा चिन्तय प्रभो।
देवतानां प्रसादेन सर्वमेतद्भविष्यति ॥ 5-191-13(38431)
मन्त्रिभिर्मन्त्रितं सार्धं त्वया पृथुललोचन।
पुरस्यास्याविनाशाय यच्च राजंस्तथा कुरु॥ 5-191-14(38432)
दैवं हि मानुषोपेतं भृशं सिद्ध्यति पार्थिव ।
परम्परविरोधाद्धि सिद्धिरस्ति न चैतयोः ॥ 5-191-15(38433)
तस्माद्विधाय नगरे विधानं सचिवैः सह।
अर्चयस्व यथाकामं दैवतानि विशांपते ॥ 5-191-16(38434)
एवं संभाषमाणौ तु दृष्ट्वा शोकपरायणौ।
शिखण्डिनी तदा कन्या व्रीडितेव तपस्विनी ॥ 5-191-17(38435)
ततः सा चिन्तयामास मन्कृते दुःखितावुभौ ।
इमाविति ततश्चक्रे मतिं प्राणविनाशने ॥ 5-191-18(38436)
एवं सा निश्चयं कृत्वा भृशं शोकपरायणा।
निर्जगाम गृहं त्यक्त्वा गहनं निर्जनं वनम् ॥ 5-191-19(38437)
यक्षेणर्द्धिमता राजन्स्थूणाकर्णेन पालितम् ।
तद्भयादेव च जनो विसर्जयति तद्वनम् ॥ 5-191-20(38438)
तत्र च स्थूणभवनं सुधामृत्तिकलेपनम् ।
लाजोल्लापिकधूमाढ्यमुच्चप्राकारतोरणम् ॥ 5-191-21(38439)
तन्प्रविश्य शिखण्डी सा द्रुपदस्यात्मजा नृप ।
अनश्नाना बहुतिथं शरीरमुदशोपयत् ॥ 5-191-22(38440)
दर्शयामास तां यक्षः स्थूणो मार्दवसंयुतः ।
किमर्थोऽयं तवारम्भः करिष्ये ब्रूहि माचिरम् ॥ 5-191-23(38441)
अशक्ययिति सा यक्षं पुनः पुनरुवाच ह।
करिष्यामीति वै क्षिप्रं प्रत्युवाचाथ गुह्यकः ॥ 5-191-24(38442)
धनेश्वरस्यानुचरो वरदोऽस्मि नृपात्मजे।
अदेयमपि दास्यादि ब्रूहि यत्ते विवक्षितम् ॥ 5-191-25(38443)
ततः शिखण्डी तत्सर्वमखिलेन न्यवेदयत्।
तस्मै यक्षप्रधानाय स्थूणाकर्णाय भारत ॥ 5-191-26(38444)
शिखण्ड्युवाच। 5-191-27x(3932)
आपन्नो मे पिता यक्ष न चिरान्नाशमेष्यति।
अभियास्यति सक्रोधो दशार्णाधिपतिर्हि तम् ॥ 5-191-27(38445)
मन्निमित्तं महोत्साहः सहेमकवचो नृपः ।
तस्माद्रक्षस्व मां यक्ष मातरं पितरं च मे ॥ 5-191-28(38446)
प्रतिज्ञातो हि भवता दुःखप्रतिशमो मम ।
भवेयं पुरुषो यक्ष त्वत्प्रसादादनिन्दितः ॥ 5-191-29(38447)
यावदेव स राजा वै नोपयाति पुरं मम ।
तावदेव महायक्ष प्रसादं कुरु गुह्यक ॥ ॥ 5-191-30(38448)

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यनपर्वणि एकनवत्यधिकशततमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-191-11 साधुमता कल्याणवतापि देवानां सतां साधूनां च प्रतिपत्तिः पूजा नित्यं कर्तव्येति शेषः । किमु दुःखार्णवं प्राप्य कर्तव्येति । तस्मात् भवान् गुरून् देवाराधनार्थं ब्राह्मणान् अर्चयतां पूजयतु ॥ 5-191-21 लाजोल्लापिकः लाजानि उशीराणि उल्लापयति सूचयतीति लाजोल्लापिकः। उशीरपरिमलयुक्तधूमाढ्यमित्यर्थः । उशीरे लाजमुद्दिष्टमिति विश्वः। राजोपलेपधूमाढ्यं इतिo कoड पाठः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.